|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.239. अध्यायः 239
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण पार्वतींप्रति दानत्रैविध्यात्तत्फलत्रैविध्यादिकथनम्॥ 1 ॥ तथा दानफलस्य पञ्चविधत्वप्रतिपादनम्॥ 2 ॥ तथा नानाधर्मतत्फलप्रतिपादनम्॥ 3 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
एवं कृतस्य धर्मस्य श्रोतुमिच्छाम्यहं प्रभो।
प्रमाणं फलमानानां तन्मे शंसितुमर्हसि॥ 13-239-1(90860)
महेश्वर उवाच। 13-239-2x(7654)
प्रमाणकल्पनां देवि दानस्य शृणु भामिनि॥ 13-239-2(90861)
यत्सारस्तु नरो लोके तद्दानं चोत्तमं स्मृतम्।
सर्वदानविधिं प्राहुस्तदेव भुवि शोभने॥ 13-239-3(90862)
प्रस्थं सारं दरिद्रस्य शतं कोटिधनस्य च।
प्रस्थसारस्तु तत्प्रस्थं ददन्महदषाप्नुयात्॥ 13-239-4(90863)
कोटिसारस्तु तां कोटिं ददान्महदवाप्नुयात्।
उभयं तन्महत्तच्च फलेनैव समं स्मृतम्॥ 13-239-5(90864)
धर्मार्थकामभोगेषु शक्त्यभावस्तु मध्यमम्।
स्वद्रव्यादतिहीनं तु तद्दानमधमं स्मृतम्॥ 13-239-6(90865)
शृणु दत्तस्य वै देवि पञ्चधा फलकल्पनाम्।
आनन्त्यं च महच्चैव समं हीनं हि पातकम्॥ 13-239-7(90866)
तेषां विशेषं वक्ष्यामि शृणु देवि समाहिता।
दुस्त्यजस्य च वै दानं पात्र आनन्त्यमुच्यते॥ 13-239-8(90867)
दानं षङ्गुणयुक्तं तु महदित्यभिधीयते।
यथाश्रद्धं तु वै दानं यथार्हं सममुच्यते॥ 13-239-9(90868)
गुणतस्तु तथा हीनं दानं हीनमिति स्मृतम्।
दानं पातकमित्याहुः षड्गुणानां विपर्यये॥ 13-239-10(90869)
देवलोके महत्कालमान्त्यस्य फलं विदुः।
महतस्तु तथा कालं स्वर्गलोके तु पूज्यते॥ 13-239-11(90870)
समस्य तु तदा दानं मानुष्यं भोगमावहेत्।
दानं निष्फलमित्याहुर्विहीनं क्रियया शुभे॥ 13-239-12(90871)
अथवा म्लेच्छदेशेषु तत्र तत्फलतां व्रजेत्।
नरकं प्रेत्य तिर्यक्षु गच्छेदशुभदानतः॥ 13-239-13(90872)
उमोवाच। 13-239-14x(7655)
अशुभस्यापि दानस्य शुभं स्याच्च फलं कथम्॥ 13-239-14(90873)
महेश्वर उवाच। 13-239-15x(7656)
मनसा तत्वतः शुद्धमानृशंस्यपुरःसरम्।
प्रीत्या तु सर्वदानानि दत्त्वा फलमवाप्नुयात्॥ 13-239-15(90874)
रहस्यं सर्वदानानामेतद्विद्धि शुभेक्षणे।
अन्यानि धर्मकार्याणि शृणु सद्भिः कृतानि च॥ 13-239-16(90875)
आरामदेवगोष्ठानि संक्रमाः कूप एव च।
गोवाटश्च तटाकश्च सभा शाला च सर्वशः॥ 13-239-17(90876)
पाषण्डावसथश्चैव पानीयं गोतृणानि च।
व्याधितानां च भैषज्यमनाथानां च पोषणम्॥ 13-239-18(90877)
अनाथशवसंस्कारस्तीर्थमार्गविशोधनम्।
व्यसनाभ्यवपत्तिश्च सर्वेषां च स्वशक्तितः॥ 13-239-19(90878)
एतत्सर्वं समासेन धर्मकार्यमिति स्मृतम्।
तत्कर्तव्यं मनुष्येण स्वशक्त्या श्रद्धया शुभे॥ 13-239-20(90879)
प्रेत्यभावे लभेत्पुण्यं नास्ति तत्र विचारणा।
रूपं सौभाग्यमारोग्यं बलं सौख्यं लभेन्नरः।
स्वर्गो वा मानुषे वाऽपि तैस्तैराप्यायते हि सः॥ 13-239-21(90880)
उमोवाच। 13-239-22x(7657)
भगवन्लोकपालेश धर्मस्तु कतिभेदकः।
दृश्यते परितः सद्भिस्तन्मे शंसितुमर्हसि॥ 13-239-22(90881)
महेश्वर उवाच। 13-239-23x(7658)
शृणु देवि समुद्देशान्नानात्वं धर्मसङ्कटे।
धर्मा बहुविधा लोके श्रुतिभेदमुखोद्भवाः॥ 13-239-23(90882)
स्मृतिधर्मश्च बहुधा सद्भिराचार इष्यते॥ 13-239-24(90883)
देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च।
जातिधर्माश्च वै धर्मा गणधर्माश्च शोभने॥ 13-239-25(90884)
शरीरकालवैषम्यादापद्धर्मश्च दृश्यते।
एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः॥ 13-239-26(90885)
कारणात्तत्रतत्रैव फलं धर्मस्य चेष्यते।
तत्कारणसमायोगे लभेत्कुर्वन्फलं नरः॥ 13-239-27(90886)
अन्यथा न लभेत्पुण्यमतदर्हः समाविशेत्।
एवं धर्मस्य नानात्वं फलं कुर्वल्लँभेन्नरः॥ 13-239-28(90887)
श्रौतस्मार्तस्तु धर्माणां प्राकृतो धर्म उच्यते।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि॥ ॥ 13-239-29(90888)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 239 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|